गीता सार हिंदी भावार्थ अध्याय 1 , श्लोक 11 से 20
#bhajanmarg #गीता_उपदेश #geetagyan
#darshan #geetasarinhindi #aumnamahshivaya #facts #history #गीताज्ञान #गीता #भगवतगीता #भक्ति #भजन #ज्ञान_गंगा #ज्ञान
अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥11॥
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः।
सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान् ॥12॥
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥13॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥14॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
पौण्ड्रं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः॥15॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥16॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥17॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक् पृथक्॥18॥
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥19॥
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः।
हृषीकेशं तदा वाक्यमिदमाह महीपते ॥20॥
#aumnamahshivaya #bhajanmarg #bhaktisong #bholenath #krishna #krishnabhajan #krishnastatus #krishnavani #krishnaquotes #krishnajanmashtami #shivaya #mahabharat #mahabharata
श्री कृष्ण द्वारा रचित गीता उपदेश महाभारत कुरुक्षेत्र के मैदान पर हो रहे अर्जुन कृष्ण संवाद और सामने खड़ी कौरवों की खाड़ी विशाल सेना का हिंदी रूपांतरण.....!