Amba Navamanimala, also known as Arya Navakam since it is structured in the "Arya" chhandas (metre), is a unique composition on Jagadamba, attributed to the great poet Mahakavi Kalidasa.
॥ अम्बानवमणिमाला ॥
वाणीं जितशुकवाणीम् अलिकुलवेणीं भवाम्बुधिद्रोणीम् ।
वीणाशुकशिशुपाणीं नतगीर्वाणीं नमामि शर्वाणीम् ॥1॥
कुवलयदलनीलाङ्गीं कुवलयरक्षैकदीक्षितापाङ्गीम् ।
लोचनविजितकुरङ्गीं मातङ्गीं नौमि शङ्करार्धाङ्गीम् ॥2॥
कमलाकमलजकान्ताकरसारसदत्तकान्तकरकमलाम् ।
करयुगलविधृतकमलां विमलां कमलाङ्कचूडसकलकलाम् ॥3॥
सुन्दरहिमकरवदनां कुन्दसुरदनां मुकुन्दनिधिसदनाम् ।
करुणोज्जीवितमदनां सुरकुशलायासुरेषु कृतकदनाम् ॥4॥
तुङ्गस्तनजितकुम्भां कृतपरिरम्भां शिवेन गुहडिम्भाम् ।
दारितशुम्भनिशुम्भां नर्तितरम्भां पुरो विगतदम्भाम् ॥5॥
अरुणाधरजितबिम्बां जगदम्बां गमनविजितकादम्बाम् ।
पालितसुजनकदम्बां पृथुलनितम्बां भजे सहेरम्बाम् ॥6॥
शरणागतजनभरणां करुणावरुणालयां नवावरणाम् ।
मणिमयदिव्याभरणां चरणाम्भोजातसेवकोद्धरणाम् ॥7॥
नतजनरक्षादीक्षां दक्षां प्रत्यक्षदैवताध्यक्षाम् ।
वाहीकृतहर्यक्षां क्षपितविपक्षां सुरेषु कृतरक्षाम् ॥8॥
धन्यां सुरवरमान्यां हिमगिरिकन्यां त्रिलोकमूर्धन्याम् ।
विहृतसुरद्रुमवन्यां वेद्मि विना त्वां न देवतास्वन्याम् ॥9॥
एतां नवमणिमालां पठन्ति भक्त्येह ये पराशक्त्याः ।
तेषां वदने सदने नृत्यति वाणी रमा च परममुदा ॥10॥
पातय वा पाताले स्थापय वा सकलभुवनसाम्राज्ये ।
मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥11॥
Credits:
Author: Attributed to Mahakavi Kalidasa
Pictures source: www.sringeri.net
Verses tuned and sung by: Bharati Madhan Mohan
Programming-Music Production-Mixing & Mastering: Manojavvam Aatreya
Recorded at: Aatreya Studios (@Aatreya_Records )
Tabla: Roopak Kallurkar
Veene: Sri Gopal
#sringerisisters #bharatisringeri #sringeri #amba #stotram