#Om Namah Shivay #ॐ नमः शिवाय
भवानीशंकरौ वन्दे श्रद्धाविश्वासरूपिणौ
याभ्यां विना न पश्यन्ति सिद्धाः स्वान्तःस्थमीश्वरम्
वन्दे बोधमयं नित्यं गुरुं शंकररूपिणम्।
यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते
ॐ त्र्यम्बकं यजामहे सुगंधिम् पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्।
कर्पूरगौरं करुणावतारं,
संसारसारम् भुजगेन्द्रहारम्
सदावसन्तं हृदयारविन्दे,
भवं भवानीसहितं नमामि
यस्यांके च विभाति भूधरसुता देवापगा मस्तके
भाले बालविधुर्गले च गरलं यस्योरसि व्यालराट्
सोऽयं भूतिविभूषणः सुरवरः सर्वाधिपः सर्वदा
शर्वः सर्वगतः शिवः शशिनिभः श्री शंकरः पातु माम्