Trailokya Mohan Sri Kaamkala Kali Kavacham त्रैलोक्य मोहन श्री कामकला काली कवचम्
Trailokya Mohan Sri Kaamkala Kali Kavacham
त्रैलोक्य मोहन श्री कामकला काली कवचम्
★
त्रैलोक्यमोहनकवचोपदेशः-
उपदेक्ष्यामि तस्मात्त्वां बध्यतामञ्जलिः प्रिये।
सावधाना स्थिरा भूत्वा गदतो ऽनुगदस्व मे ।।
त्रैलोक्यमोहनस्यास्य कवचस्य महेश्वरि ।
त्रिपुरारिः ऋषिः प्रोक्तो विराट् छन्द उदीरितम्।।
देवी भगवती कामकलाकाली प्रकीर्तिता ।
फ्रें बीजं बीजमुद्दिष्टं कामार्णं कीलकं मतम् ।।
योगिनी शक्तिरुद्दिष्टा डाकिनी तत्त्वमुच्यते ।
विनियोगोऽस्य कथितः पुरुषार्थचतुष्टये ।।
देवीकामकलाकालीप्रीत्यर्थे च विशेषतः ।
शत्रुक्षयार्थे राज्याप्त्यै प्रयोगोऽस्य वरानने ।।
।।कवचम्।।
ॐ ऐं श्रीं क्लीं शिरः पातु फ्रें ह्रीं छ्रीं मदनातुरा।
स्त्रीं ह्रूं क्षौं ह्रीं लं ललाटं पातु ख्फ्रें क्रौं करालिनी॥ 1
आं हौं फ्रों क्षूँ मुखं पातु क्लूं ड्रं थ्रौं चन्ण्डनायिका।
हूं त्रैं च्लूं मौः पातु दृशौ प्रीं ध्रीं क्ष्रीं जगदाम्बिका॥ 2
क्रूं ख्रूं घ्रीं च्लीं पातु कर्णौ ज्रं प्लैं रुः सौं सुरेश्वरी।
गं प्रां ध्रीं थ्रीं हनू पातु अं आं इं ईं श्मशानिनी॥ 3
जूं डुं ऐं औं भ्रुवौ पातु कं खं गं घं प्रमाथिनी।
चं छं जं झं पातु नासां टं ठं डं ढं भगाकुला॥ 4
तं थं दं धं पात्वधरमोष्ठं पं फं रतिप्रिया।
बं भं यं रं पातु दन्तान् लं वं शं सं चं कालिका॥ 5
हं क्षं क्षं हं पातु जिह्वां सं शं वं लं रताकुला।
वं यं भं वं चं चिबुकं पातु फं पं महेश्वरी॥ 6
धं दं थं तं पातु कण्ठं ढं डं ठं टं भगप्रिया।
झं जं छं चं पातु कुक्षौ घं गं खं कं महाजटा॥ 7
ह्सौः ह्स्ख्फ्रैं पातु भुजौ क्ष्मूं म्रैं मदनमालिनी।
ङां ञीं णूं रक्षताज्जत्रू नैं मौं रक्तासवोन्मदा ॥ 8
ह्रां ह्रीं ह्रूं पातु कक्षौ में ह्रैं ह्रौं निधुवनप्रिया।
क्लां क्लीं क्लूं पातु हृदयं क्लैं क्लौं मुण्डावतंसिका॥9
श्रां श्रीं श्रूं रक्षतु करौ श्रैं श्रौं फेत्कारराविणी।
क्लां क्लीं क्लूं अङ्गुलीः पातु क्लैं क्लौं च नारवाहिनी॥10
च्रां च्रीं च्रूं पातु जठरं च्रैं च्रौं संहाररूपिणी।
छ्रां छ्रीं छ्रूं रक्षतान्नाभिं छ्रैं छ्रौं सिद्धकरालिनी॥11
स्त्रां स्त्रीं स्त्रूं रक्षतात् पार्श्वौ स्त्रैं स्त्रौं निर्वाणदायिनी।
फ्रां फ्रीं फ्रूं रक्षतात् पृष्ठं फ्रैं फ्रौं ज्ञानप्रकाशिनी॥12
क्षां क्षीं क्षूं रक्षतु कटिं क्षैं क्षौं नृमुण्डमालिनी।
ग्लां ग्लीं ग्लूं रक्षतादूरू ग्लैं ग्लौं विजयदायिनी॥13
ब्लां ब्लीं ब्लूं जानुनी पातु ब्लैं ब्लौं महिषमर्दिनी।
प्रां प्रीं प्रूं रक्षताज्जङ्घे प्रैं प्रौं मृत्युविनाशिनी॥14
थ्रां थ्रीं थ्रूं चरणौ पातु थ्रैं थ्रौं संसारतारिणी।
ॐ फ्रें सिद्ध्विकरालि ह्रीं छ्रीं ह्रं स्त्रीं फ्रें नमः॥15
सर्वसन्धिषु सर्वाङ्गं गुह्यकाली सदावतु।
ॐ फ्रें सिद्ध्विं हस्खफ्रें ह्सफ्रें ख्फ्रें करालि ख्फ्रें हस्खफ्रें ह्स्फ्रें फ्रें ॐ स्वाहा॥16
रक्षताद् घोरचामुण्डा तु कलेवरं वहक्षमलवरयूं।
अव्यात् सदा भद्रकाली प्राणानेकादशेन्द्रियान् ॥17
ह्रीं श्रीं ॐ ख्फ्रें ह्स्ख्फ्रें हक्षम्लब्रयूं न्क्ष्रीं नज्च्रीं स्त्रीं छ्रीं ख्फ्रें ठ्रीं ध्रीं नमः।
यत्रानुक्त्तस्थलं देहे यावत्तत्र च तिष्ठति॥18
उक्तं वाऽप्यथवानुक्तं करालदशनावतु
ॐ ऐं ह्रीं श्रीं क्लीं हूं स्त्रीं ध्रीं फ्रें क्षूं क्शौं क्रौं ग्लूं ख्फ्रें प्रीं ठ्रीं थ्रीं ट्रैं ब्लौं फट् नमः स्वाहा॥19
सर्वमापादकेशाग्रं काली कामकलावतु॥20
★
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
एतेन कवचेनैव यदा भवति गुण्ठितः। ।
वज्रात् सारतरं तस्य शरीरं जायते तदा ।
शोकदुःखामयैर्मुक्तः सद्यो ह्यमरतां व्रजेत् ।।
आमुच्यानेन देहं स्वं यत्र कुत्रापि गच्छतु ।
युद्धे दावाग्निमध्ये च सरित्पर्वतसिन्धुषु।।
राजद्वारे च कान्तारे चौरव्याघ्राकुले पथि ।
विवादे मरणे त्रासे महामारीगदादिषु । ।
दुःस्वप्ने बन्धने घोरे भूतावेशग्रहोद्गतौ ।
विचर त्वं हि रात्रौ च निर्भयेनान्तरात्मना ।।
एकावृत्त्याघनाशः स्यात् त्रिवृत्त्या चायुराप्नुयात् ।
शतावृत्त्या सर्वसिद्धिः सहस्रैः खेचरो भवेत् । ।
वल्लेभऽयुतपाठेन शिव एव न संशयः।
किं वा देवि जानेः सत्यं सत्यं ब्रवीमि ते । ।
चतुस्त्रैलोक्यलाभेन त्रैलोक्यविजयी भवेत् ।
त्रैलोक्याकर्षणो मन्त्रस्त्रैलोक्यविजयस्तदा ।।
त्रैलोक्यमोहनं चैतत् त्रैलोक्यवशकृन्मनुः ।
एतच्चतुष्टयं देवि संसारेष्वतिदुर्लभम्।।
प्रसादात्कवचस्यास्य के सिद्धिं नैव लेभिरे ।
संवर्ताद्याश्च ऋषयो मारुत्ताद्या महीभुजः । ।
विशेषतस्तु भरतो लब्धवान् यच्छृणुष्व तत् ।
जाह्नवीयमुनारेवाकावेरीगोमतीष्वयम्।।
सहस्रमश्वमेधानाम एकैकत्राजहार हि ।
याजयित्रे मातृपित्रे त्वेकैकस्मिन् महाक्रतौ ।।